संस्कृतभारत्याः अवधप्रान्तस्य द्विदिवसीया प्रान्तसमीक्षागोष्ठी सफलतया सम्पन्ना:

गोष्ठ्यां प्रत्येकं जनपदस्य मासिककार्यक्रमाणां कार्ययोजनायाश्च विषये विस्तृतं चिन्तनं सम्पन्नम्

सम्पर्ककार्यस्य तीव्रतायाः आवासीय-प्रशिक्षण-कार्यक्रमाणां च प्रोत्साहनविषयेsपि चर्चा अभवद्

दैनिक इंडिया न्यूज़, लक्ष्मणपुरी (लखनऊ)।
संस्कृतभारत्याः अवधप्रान्तेन आयोजिता द्विदिवसात्मक- प्रान्तसमीक्षा-योजनागोष्ठी २०२५ तमवर्षस्य वैशाख मासे नवमदशम-दिवसे महानगरे स्थिते प्रान्तकार्यालये शिवमन्दिर-परिसरे सफलतया सम्पन्ना। अस्यां गोष्ठ्यां त्रयोदशजनपदानां पदाधिकारिणां सहभागिता आसीत्।

मुख्यातिथिरूपेण उपस्थिताः आसन् — अखिलभारतीयमन्त्री नन्दकुमारः, क्षेत्रीय-संघटन-मन्त्री प्रमोदः पण्डितः, संस्कृतभारती-न्यासस्य अध्यक्षः जितेन्द्र-प्रताप-सिंहः , प्रान्ताध्यक्षः शोभनलाल-उकीलः च। एतेषां सान्निध्ये २०२५ तमे संवत्सरे मासद्वादशकं व्याप्नुवन्तः कार्यक्रमाः विशदीकृत्य चर्चिता आसन् तथा तेषां रूपरेखा अनुमोदिता।

एतस्यां समीक्षायां निश्चितं यत् प्रत्येकं जनपदस्य कृते भाषायाः उन्नयनं, कार्यकर्तृविकासः, बालकेन्द्राणां सञ्चालनम्, गीता-रामायणयोः पाठः, वाल्मीकि-जयन्ती, गीता-जयन्ती, संस्कृतसप्ताहः, स्नेहमेलनं च मासे मासे आयोक्ष्यन्ते।

प्रान्तपदाधिकारिणां जनपदगमन-योजना अपि निर्धारिता, येन संघटनकार्यं स्थले स्थले पूर्णतया प्रवर्तेत। गोष्ठ्याः संचालनं प्रान्तसहमन्त्रिणा रत्नेशत्रिपाठिना कृतम्।

वार्षिक-कार्यक्रमाणां समीक्षां कुर्वन् अखिलभारतीय-मन्त्री नन्दकुमारः समस्तविषयेषु मार्गदर्शनं कृतवान् । प्रमोदः पण्डितः, क्षेत्रीय-संघटन-मन्त्री, वैशाख मासे ‘समर्पणमास’रूपेण आयोजयितुं संकल्पं दत्तवान्।

जितेन्द्र-प्रताप-सिंहः, अध्यक्षः संस्कृतभारती-न्यासस्य, संघटनस्य गतिशीलतायै सम्पर्ककार्यस्य माध्यमेन नूतनान् कार्यकर्तॄन् संघटना सह योजयितुं प्रेरितवान्।

प्रान्ताध्यक्षः शोभनलाल-उकीलः संस्कृतभाषायाः प्रसाराय “संजाल-प्रशिक्षणम्” तथा पत्राचारशिक्षण-कार्यक्रमाः च सञ्चालनीया इति मतं प्रस्तुत्य गोष्ठ्याः वैशिष्ट्यम् उक्तवान्।

एषा द्विदिवसीया गोष्ठी संघटनस्य आगामि-योजनानां सफलतया क्रियान्वयनाय महत्त्वपूर्णस्तम्भत्वेन अभवत्।

Share it via Social Media

Leave a Reply

Your email address will not be published. Required fields are marked *