दैनिक इन्डियान्यूज 29 जून 2024 लखनऊ। पूर्वनिश्चितकार्यसूच्याः निष्पादनोद्यमेण संस्कृतभारती अवधप्रांतस्य प्रमुखा गोष्ठी संस्कृतभारती कार्यालये, शिवमन्दिरप्रांगणे, महानगरलखनऊ नगरे सम्पन्ना। प्रांताध्यक्षः शोभनलालः उकीलः अध्यक्षतां वहन्, रत्नेशमणिः त्रिपाठी सहप्रांतसचिवः, गोष्ठीं संचालयन् आसीत्। गोष्ठ्याम् क्षेत्रसंयोजकः कन्हैयालालः झा, प्रमोदः पण्डितः, क्षेत्रीयसंगठनमन्त्री, जितेन्द्रः प्रतापसिंहः, सम्पर्कप्रमुखः अवधप्रांतस्य च उपस्थिताः आसन्।
गोष्ठ्याम् सम्पर्कपख्वाडः, संस्कृतसप्ताहः, अखिलभारतीयमहामन्त्रीः सत्यनारायणभट्टस्य प्रवासः, सितम्बरमासे हरिद्वारे अखिलभारतीयवर्गे सहभागिता, श्रीशदेवपूजारी अखिलभारतीयसम्पर्कप्रमुखस्य लखनऊ प्रवासः च कार्यक्रमाणां रूपरेखायाः विस्तृतचर्चा कृता। एतेषु कार्यक्रमेषु 14 जुलाई 2024 तमे प्रांतो कार्यालये जनपदप्रतिनिधीनां गोष्ठ्याः आयोजनस्य रूपरेखायाः निर्णयः अभवत्।
संस्कृतं जनजनस्य भाषारूपेण स्थापयितुं, संस्कृतसाहित्यं, वेदाः, पुराणग्रन्थाः च सरलरूपेण उपयोगाय समाजे प्रवर्तमानं करणीयं इति प्रशिक्षणकार्यक्रमाणि च निरन्तरं सञ्चालनीयाः इति विषयेषु विमर्शः अभवत्। अन्यसंगठनात्मकप्रबन्धकीयकार्याणां चर्चापि कृता। प्रांतजनपदसमन्वयाय निरन्तरसम्पर्कविमर्शे च सहमतिः प्राप्ता।
जितेन्द्रप्रतापसिंहः संस्कृतस्य उन्नतौ आकाशवाण्या संस्कृतवार्ताप्रसारणस्य पञ्चाशद्वर्षाणि सम्पूर्णानि अभूत इति बधायां ज्ञापयत्।