प्रत्येकस्मिन् शनिवासरे स्तोत्रकक्षा, २८ अक्तूबर २०२६ तः संस्कृतसम्भाषणशिबिरम्; विद्यार्थिनां व्यक्तित्वविकासाय मासिकं बौद्धिकसत्रं वाक्यार्थसभा च भविष्यतः

दैनिक इण्डिया न्यूज़, नवदेहली।मिहिरावली-जनपदे संस्कृतभाषायाः प्रचार-प्रसारं व्यापकं कर्तुं विविधाः कार्यक्रमाः निर्धारिताः सन्ति। प्रत्येकस्मिन् शनिवासरे सायंकाले स्तोत्रकक्षायाः आयोजनं भविष्यति। वेदव्यासगुरुकुले २८ अक्तूबर २०२६ तः प्रतिदिनं प्रातः ६:३० वादनात् ८:३० वादनपर्यन्तं संस्कृतसम्भाषणशिबिरस्य आयोजनं भविष्यति। विद्यार्थिनां व्यक्तित्वविकासाय प्रत्येकं मासे त्रयोदश्यां तिथौ बौद्धिकसत्रस्य आयोजनं भविष्यति। संस्कृतभाषायाः अध्ययनं, चिन्तनं, तर्कशक्तिं तथा प्रभावपूर्णाम् अभिव्यक्तिं च प्रोत्साहयितुं वाक्यार्थसभायाः आयोजनमपि भविष्यति।

स्तोत्रकक्षायाः अवधानकर्ता मिहिरावली-जनपदस्य जनपदमन्त्री डॉ. प्रदीपकुमारपाण्डेयः भविष्यति। वसन्तकुञ्जनगरस्य संयोजकः महेशसहरावतः संयोजकत्वेन दायित्वं निर्वहिष्यति। वसुन्धरा आर्या सहसंयोजिकायाः दायित्वं निर्वहिष्यति। वेदव्यासगुरुकुलस्य शिक्षकः शिवनाथः शिक्षकत्वेन तथा गुरुकुलस्य अर्चकः सुमनकुमारझा सहशिक्षकत्वेन दायित्वं निर्वहिष्यतः।
वेदव्यासगुरुकुले २८ अक्तूबर २०२६ तः संस्कृतसम्भाषणशिबिरस्य प्रारम्भः भविष्यति। शिबिरस्य अवधानकर्ता गुरुकुलस्य प्राचार्यः डॉ. विठ्ठोवाचार्यः भविष्यति। गुरुकुलस्य छात्रावासपालकः सूरजः शिविरसंयोजकस्य दायित्वं निर्वहिष्यति। जनपदविस्तारकः धीरजः शिक्षकत्वेन तथा गुरुकुलस्य शिक्षकः शिवनाथः सहशिक्षकत्वेन कार्यं करिष्यतः।
वेदव्यासगुरुकुलस्य विद्यार्थिनां व्यक्तित्वविकासाय तथा वैचारिकमार्गदर्शनाय प्रत्येकं मासे त्रयोदश्यां तिथौ बौद्धिकसत्रस्य आयोजनं भविष्यति। अस्य सत्रस्य संयोजकः रामकृष्णपुरम-विभागस्य विभागसंयोजकः अमितकुमारमिश्रः भविष्यति। आगामी बौद्धिकसत्रे मिहिरावली-जनपदस्य जिला-प्रचारकः श्रीमान् स्पर्शमहोदयः विद्यार्थिनां मार्गदर्शनं करिष्यति।
संस्कृतभाषायाः अध्ययनं, चिन्तनं, तर्कशक्तिं तथा प्रभावपूर्णाम् अभिव्यक्तिं च प्रोत्साहयितुं वाक्यार्थसभायाः आयोजनं भविष्यति। अस्याः सभायाः संयोजकः मिहिरावली-जनपदस्य पत्राचारप्रमुखः डॉ. मनीषशर्मा भविष्यति। डॉ. विनयगोपालत्रिपाठी सहसंयोजकरूपेण दायित्वं निर्वहिष्यति।
एतेषां कार्यक्रमाणां निर्धारणं ७ अक्तूबर २०२६ दिनाङ्के सम्पन्नायां मिहिरावली-जनपदस्य मासिकगोष्ठ्यां कृतम्। गोष्ठ्याः प्रारम्भः ध्येयमन्त्रेण अभवत्। ततः संस्कृतसप्ताहस्य अन्तर्गतं सम्पन्नानां कार्यक्रमाणां समीक्षा कृता। आगामीसङ्गठनात्मककार्यक्रमाणां तथा संस्कृतभाषायाः प्रचार-प्रसारस्य विषये उपस्थितैः कार्यकर्तृभिः विस्तरेण विचारविमर्शः कृतः।
गोष्ठ्यां रामकृष्णपुरम-विभागस्य विभागसंयोजकः अमितकुमारमिश्रः तथा वेदव्यासगुरुकुलस्य प्राचार्यः डॉ. विठ्ठोवाचार्यः मार्गदर्शनं कृतवन्तौ। उपस्थितैः दायित्ववद्भिः कार्यकर्तृभिः निर्धारितकार्यक्रमान् सफलतया सम्पन्नं कर्तुं तथा संस्कृतभाषायाः प्रचार-प्रसारं जनजनपर्यन्तं नेतुं संकल्पः कृतः।
अन्ते कल्याणमन्त्रस्य पाठेन मासिकगोष्ठ्याः समापनम् अभवत्।