
दैनिक इण्डिया न्यूज, नवदेहली।संस्कृतभाषा न केवलम् अतीतस्य ज्ञानभाषा, अपितु भारतीयज्ञानपरम्परायाः, सांस्कृतिकचेतनायाः, बौद्धिकसमृद्धेश्च मूलाधारः अस्ति। एतामेव दृष्टिम् आधारीकृत्य संस्कृतभाषायाः प्रचारप्रसारं व्यापकं कर्तुं संस्कृतभारत्याः बसन्तजनपदस्य मासिकगोष्ठी २०२६ तमस्य वर्षस्य अक्टूबरमासस्य अष्टमे दिनाङ्के भारतीयभाषासमितेः आईआईटी-परिसरे सम्पन्ना। डॉ. देवकीनन्दनमहोदयस्य स्वीकृत्या आयोजितायाः अस्याः गोष्ठ्याः प्रारम्भः ध्येयमन्त्रेण अभवत्। गोष्ठ्यां संस्कृतभाषायाः प्रचारप्रसारकार्ये संलग्नाः दायित्ववन्तः कार्यकर्तारः समुपस्थिताः आसन्। सर्वैः मिलित्वा भाषायाः विस्तारस्य, भाविकार्यक्रमाणां, सङ्गठनात्मककार्याणां च विषये विस्तृतं विचारविमर्शः कृतः।

गोष्ठेः प्रमुखं वैशिष्ट्यम् आसीत् यत् संस्कृतसप्ताहस्य अन्तर्गतं सम्पन्नानां कार्यक्रमाणां तथा संस्कृतशिक्षणाभियानस्य विस्तृतसमीक्षा कृता। उपलब्धविवरणानुसारम् आईआईटी-देहल्यां षट्, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालये नव तथा जनपदस्य विभिन्नस्थानेषु पञ्चदश संस्कृतशिबिराणि आयोजितानि। एते प्रयासाः संस्कृतभाषां शिक्षणसंस्थासु जनसमुदायेषु च प्रसारयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। इदानीं मुख्यावश्यकता एतान् प्रयासान् नियमिताभ्यासेन, जनसहभागितया, दैनिकव्यवहारेण च सम्बद्धान् कर्तुम् अस्ति।

अस्यामेव आवश्यकतायां दृष्टिपातं कृत्वा भारतीयज्ञानपरम्पराकार्यालये (आईकेएस), भीकाजीकामाप्लेस्-स्थिते अर्जुननगरे, अक्टूबरमासस्य षष्ठदिनाङ्कात् अष्टाविंशतिदिनाङ्कपर्यन्तं कार्यालयकर्मचारिणां कृते संस्कृतसम्भाषणशिबिरं सञ्चाल्यते। अस्य शिबिरस्य अवधानकर्तृत्वं श्रीमनीषशर्ममहोदयः, शिक्षणदायित्वं विस्तारकः श्रीधीरजः, सङ्गठनात्मकसंयोजनदायित्वं च श्रीअम्बिकादुबे महोदयः निर्वहन्ति। एतदतिरिक्तं प्रतिशुक्रवासरे सायं पञ्चवादनात् श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य परिसरे साप्ताहिकमेलनम् आयोजयिष्यते। अस्मिन् श्रीमनीषशर्मा अवधानकर्तारूपेण, यश्वी छात्राप्रमुखारूपेण, श्रीपीयूषः संयोजकरूपेण, श्रीउद्भवः सहसंयोजकरूपेण च कार्यं करिष्यन्ति।
संस्कृताध्ययनं सुव्यवस्थितं व्याकरणसम्मतं च कर्तुं छन्दः, कारकम्, समासः, सन्धिः इत्यादिविषयेषु पृथक्-पृथक् अभ्यासवर्गाणाम् आयोजनस्य निर्णयः अपि कृतः। एतेषां वर्गाणाम् अवधानकर्तृत्वं श्रीअमितकुमारमिश्रमहोदयाय, संयोजनदायित्वं श्रीमनीषशर्मणे, सहसंयोजनदायित्वं श्रीनरेन्द्रभागीरथीमहोदयाय च समर्पितम्। विभागीयः अभ्यासवर्गः अक्टूबरमासस्य चतुर्विंशतिदिनाङ्के सायं पञ्चवादनात् पञ्चविंशतिदिनाङ्के सायं पञ्चवादनपर्यन्तम् आयोजयितुं प्रस्तावितः अस्ति। अस्य स्थानस्य सूचना अनन्तरं प्रदास्यते। नवम्बरमासस्य चतुर्थदिनाङ्के भाविनी मासिकगोष्ठी आयोजयिष्यते। तस्याः प्रमुखत्वेन डॉ. मोहनलालशर्मा तथा सहप्रमुखत्वेन श्रीदेवेशसकलानी नियुक्तौ स्तः।
संस्कृतभाषायाः प्रचाराभियानं जनपदस्य प्रत्येकस्मिन् क्षेत्रे प्रसारयितुं नगरस्तरे अपि दायित्वानि निर्धारितानि। मुनीरकानगरे डॉ. कपिलदेवः, सरोजनीनगरे डॉ. बृजमोहनः, अर्जुननगरे श्रीअम्बिकादुबे, मोतीबागनगरे डॉ. विनयगोपालः, रामकृष्णपुरनगरे डॉ. मोहनलालशर्मा च शिबिराणाम् आयोजनस्य समन्वयस्य च दायित्वं निर्वक्ष्यन्ति। एतदतिरिक्तं मुनीरकाजनपदे बालकेन्द्रस्य सञ्चालनविषयेऽपि चर्चा कृता। अस्य केन्द्रस्य अवधानकर्तृत्वं डॉ. खेमराजरेग्मीमहोदयाय तथा शिक्षणदायित्वं डॉ. स्वात्यै यश्व्यै च समर्पितम्। बालानां संस्कृताध्ययने रुचिं जनयितुं, भाषया सह तेषां सहजसम्बन्धं स्थापयितुं च एषा योजना महत्त्वपूर्णं सोपानं भवितुम् अर्हति।
गोष्ठ्याः समापनसमये सर्वैः कार्यकर्तृभिः परस्परसहयोगेन संस्कृतभाषायाः प्रचारप्रसारकार्यं अधिकव्यापकं, नियमितं प्रभावपूर्णं च कर्तुं सङ्कल्पः कृतः। डॉ. देवकीनन्दनमहोदयस्य, रामकृष्णपुरमविभागस्य संयोजकस्य श्रीअमितकुमारमिश्रमहोदयस्य तथा अन्येषां दायित्ववतां कार्यकर्तॄणां सहभागितया भाविकार्ययोजनानां दिशि सामूहिकप्रयत्नानां महत्त्वं पुनः प्रतिपादितम्। अयं अभियानः केवलं शिबिराणाम् आयोजनपर्यन्तं सीमितः न भविष्यति, अपितु साप्ताहिकाभ्यासेन, विषयाधारिताध्ययनेन, बालशिक्षया, नगरस्तरीयसङ्गठनविस्तारेण च संस्कृतभाषां जनजीवनस्य अभिन्नाङ्गं कर्तुं प्रयतिष्यते। अन्ते कल्याणमन्त्रेण गोष्ठिः सफलतया सम्पन्ना।
॥